(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Aadiparv (Mahabharat) - आदिपर्व (महाभारत)


॥ श्रीः ॥
1.146. अध्यायः 146
Mahabharata - Adi Parva - Chapter Topics
कर्णस्य परीक्षा॥ 1 ॥ कर्णार्जुनयोर्युद्धप्रसङ्गः॥ 2 ॥ कृपेण कर्णस्याधिक्षेपः, कर्णस्य दुर्योधनेन राज्याभिषेचनं च॥ 3 ॥
Mahabharata - Adi Parva - Chapter Text

वैशम्पायन उवाच। 1-146-0x(864)(6620)
`एतस्मिन्नेव काले तु तस्मिञ्जनसमागमे।'
दत्तेऽवकाशे पुरुषैर्विस्मयोत्फुल्ललोचनः।
विवेश रङ्गं विस्तीर्णं कर्णः परपुरञ्जयः॥ 1-146-1(6621)
सहजं कवचं बिभ्रत्कुण्डलोद्द्योतिताननः।
स धनुर्बद्धनिस्त्रिंशः पादचारीव पर्वतः॥ 1-146-2(6622)
कन्यागर्भः पृथुयशाः पृथायाः पृथुलोचनः।
तीक्ष्णांशोर्भास्करस्यांशः कर्णोऽरिगणसूदनः॥ 1-146-3(6623)
सिंहर्षभगजेन्द्राणां बलवीर्यपराक्रमः।
दीप्तिकान्तिद्युतिगुणैः सूर्येन्दुज्वलनोपमः॥ 1-146-4(6624)
प्रांशुः कनकतालाभः सिंहसंहननो युवा।
असङ्ख्येयगुणः श्रीमान्भास्करस्यात्मसंभवः॥ 1-146-5(6625)
स निरीक्ष्य महाबाहुः सर्वतो रङ्गमण्डलम्।
प्रणामं द्रोणकृपयोर्नात्यादृतमिवाकरोत्॥ 1-146-6(6626)
स समाजजनः सर्वो निश्चलः स्थिरलोचनः।
कोऽयमित्यागतक्षोभः कौतूहलपरोऽभवत्॥ 1-146-7(6627)
सोऽब्रवीन्मेघगम्भीरस्वरेण वदतां वरः।
भ्राता भ्रातरमज्ञातं सावित्रः पाकशासनिम्॥ 1-146-8(6628)
पार्थ यत्ते कृतं कर्म विशेषवदहं ततः।
करिष्ये पश्यतां नॄणां माऽऽत्मना विस्मयं गमः॥ 1-146-9(6629)
असमाप्ते ततस्तस्य वचने वदतां वर।
यन्त्रोत्क्षिप्त इवोत्तस्थौ क्षिप्रं वै सर्वतो जनः॥ 1-146-10(6630)
प्रीतिश्च मनुजव्याघ्र दुर्योधनमुपाविशत्।
ह्रीश्च क्रोधश्च बीभत्सुं क्षणेनान्वाविवेश ह॥ 1-146-11(6631)
ततो द्रोणाभ्यनुज्ञातः कर्णः प्रियरणः सदा।
यत्कृतं तत्र पार्थेन तच्चकार महाबलः॥ 1-146-12(6632)
अथ दुर्योधनस्तत्र भ्रातृभिः सह भारत।
कर्णं परिष्वज्य मुदा ततो वचनमब्रवीत्॥ 1-146-13(6633)
स्वागतं ते महाबाहो दिष्ट्या प्राप्तोऽसि मानद।
अहं च कुरुराज्यं च यथेष्टमुपभुज्यताम्॥ 1-146-14(6634)
कर्ण उवाच। 1-146-15x(865)
कृतं सर्वमहं मन्ये सखित्वं च त्वया वृणे।
द्वन्द्वयुद्धं च पार्थेन कर्तुमिच्छाम्यहं प्रभो॥ 1-146-15(6635)
`वैशम्पायन उवाच। 1-146-16x(866)
एवमुक्तस्तु कर्णेन राजन्दुर्योधनस्तदा।
कर्णं दीर्घाञ्चितभुजं परिष्वज्येदमब्रवीत्॥' 1-146-16(6636)
भुङ्क्ष्व भोगान्मया सार्धं बन्धूनां प्रियकृद्भव।
दुर्हृदां कुरु सर्वेषां मूर्ध्नि पादमरिन्दम॥ 1-146-17(6637)
वैशम्पायन उवाच। 1-146-18x(867)
ततः क्षिप्तमिवात्मानं मत्वा पार्थोऽभ्यभाषत।
कर्णं भ्रातृसमूहस्य मध्येऽचलमिव स्थितम्॥ 1-146-18(6638)
अर्जुन उवाच। 1-146-19x(868)
अनाहूतोपसृष्टानामनाहूतोपजल्पिनाम्।
ये लोकास्तान्हतः कर्ण मया त्वं प्रतिपत्स्यसे॥ 1-146-19(6639)
कर्ण उवाच। 1-146-20x(869)
रङ्गोऽयं सर्वसामान्यः किमत्र तव फाल्गुन।
वीर्यश्रेष्ठाश्च राजानो बलं धर्मोऽनुवर्तते॥ 1-146-20(6640)
किं क्षेपैर्दुर्बलायासैः शरैः कथय भारत।
गुरोः समक्षं यावत्ते हराम्यद्य शिरः शरैः॥ 1-146-21(6641)
वैशम्पायन उवाच। 1-146-22x(870)
ततो द्रोणाभ्यनुज्ञातः पार्तः परपुरञ्जयः।
भ्रातृभिस्त्वरयाश्लिष्टो रणायोपजगाम तम्॥ 1-146-22(6642)
ततो दुर्योधनेनापि स भ्रात्रा समरोद्यतः।
परिष्वक्तः स्थितः कर्णः प्रगृह्य सशरं धनुः॥ 1-146-23(6643)
ततः सविद्युत्स्तनितैः सेन्द्रायुधपुरोगमैः।
आवृतं गगनं मेघैर्बलाकापङ्क्तिहासिभिः॥ 1-146-24(6644)
ततः स्नेहाद्धरिहयं दृष्ट्वा रङ्गावलोकिनम्।
भास्करोऽप्यनयन्नाशं समीपोपगतान्घनान्॥ 1-146-25(6645)
मेघच्छायोपगूढस्तु ततोऽदृश्यत फाल्गुनः।
सूर्यातपपरिक्षिप्तः कर्णोऽपि समदृश्यत॥ 1-146-26(6646)
धार्तराष्ट्रा यतः कर्णस्तस्मिन्देशे व्यवस्थिताः।
भारद्वाजः कृपो भीष्मो यतः पार्थस्ततोऽभवन्॥ 1-146-27(6647)
द्विधा रङ्गः समभवत्स्त्रीणां द्वैधमजायत।
कुन्तिभोजसुता मोहं विज्ञातार्था जगाम ह॥ 1-146-28(6648)
तां तथा मोहमापन्नां विदुरः सर्वधर्मवित्।
कुन्तीमाश्वासयामास प्रेष्याभिश्चन्दनोदकैः॥ 1-146-29(6649)
ततः प्रत्यागतप्राणा तावुभौ परिदंशितौ।
पुत्रौ दृष्ट्वा सुसंभ्रान्ता नान्वपद्यत किंचन॥ 1-146-30(6650)
तावुद्यतमहाचापौ कृपः शारद्वतोऽब्रवीत्।
द्वन्द्वयुद्धसमाचारे कुशलः सर्वधर्मवित्॥ 1-146-31(6651)
अयं पृथायास्तनयः कनीयान्पाण्डुनन्दनः।
कौरवो भवता सार्धं द्वन्द्वयुद्धं करिष्यति॥ 1-146-32(6652)
त्वमप्येवं महाबाहो मातरं पितरं कुलम्।
कथयस्व नरेन्द्राणां येषां त्वं कुलभूषणम्॥ 1-146-33(6653)
ततो विदित्वा पार्थस्त्वां प्रतियोत्स्यति वा न वा।
वृथाकुलसमाचारैर्न युध्यन्ते नृपात्मजाः॥ 1-146-34(6654)
वैशम्पायन उवाच। 1-146-35x(871)
एवमुक्तस्य कर्णस्य व्रीडावनतमाननम्।
बभौ वर्षाम्बुविक्लिन्नं पद्ममागलितं यथा॥ 1-146-35(6655)
दुर्योधन उवाच। 1-146-36x(872)
आचार्य त्रिविधा योनी राज्ञां शास्त्रविनिश्चये।
सत्कुलीनश्च शूरश्च यश्च सेनां प्रकर्षति॥ 1-146-36(6656)
`अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम्।
तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति॥' 1-146-37(6657)
यद्ययं फाल्गुनो युद्धे नाराज्ञा योद्धुमिच्छति।
तस्मादेषोऽङ्गविषये मया राज्येऽभिषिच्यते॥ 1-146-38(6658)
वैशम्पायन उवाच। 1-146-39x(873)
`ततो राजानमामन्त्र्य गाङ्गेयं च पितामहम्।
अभिषेकस्य संभारान्समानीय द्विजातिभिः॥ 1-146-39(6659)
गोसहस्रायुतं दत्त्वा युक्तानां पुण्यकर्मणाम्।
अर्होऽयमङ्गराज्यस्य इति वाच्य द्विजातिभिः'॥ 1-146-40(6660)
ततस्तस्मिन्क्षणे कर्णः सलाजकुसुमैर्घटैः।
काञ्चनैः काञ्चने पीठे मन्त्रविद्भिर्महारथः॥ 1-146-41(6661)
अभिषिक्तोऽङ्गराजे स श्रिया युक्तो महाबलः।
`स मौलिहारकेयूरः सहस्ताभरणाङ्गदः॥ 1-146-42(6662)
राजलिङ्गैस्तथाऽन्यैश्च भूषितो भूषणैः शुभैः।'
सच्छत्रवालव्यजनो जयशब्दोत्तरेण च॥ 1-146-43(6663)
उवाच कौरवं राजन्वचनं स वृषस्तदा।
अस्य राज्यप्रदानस्य सदृशं किं ददानि ते॥ 1-146-44(6664)
प्रब्रूहि राजशार्दूल कर्ता ह्यस्मि तथा नृप।
अत्यन्तं सख्यमिच्छामीत्याह तं स सुयोधनः॥ 1-146-45(6665)
एवमुक्तस्ततः कर्णस्तथेति प्रत्युवाच तम्।
हर्षाच्चोभौ समाश्लिष्य परां मुदमवापतुः॥ ॥ 1-146-46(6666)

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि षट्चत्वारिंशदधिकशततमोऽध्यायः॥ 146 ॥

Mahabharata - Adi Parva - Chapter Footnotes
1-146-1 दत्तावकाश इति चपाठः॥ 1-146-6 नामपूर्वमथाकरोत् इति पाठान्तरम्॥ 1-146-26 सूर्यातपपरिवक्त इति डपाठः॥ 1-146-28 विज्ञातार्था कर्णस्य स्वपुत्रत्वज्ञानवती। हेतुगर्भमेतत्॥ 1-146-34 वृथाकुलसमाचारैः अज्ञातकुलाचारैः॥ 1-146-40 वाच्य वाचयित्वा॥ षट्चत्वारिंशदधिकशततमोऽध्यायझ॥ 146 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.