|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.146. अध्यायः 146
Mahabharata - Adi Parva - Chapter Topics
कर्णस्य परीक्षा॥ 1 ॥ कर्णार्जुनयोर्युद्धप्रसङ्गः॥ 2 ॥ कृपेण कर्णस्याधिक्षेपः, कर्णस्य दुर्योधनेन राज्याभिषेचनं च॥ 3 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-146-0x(864)(6620)
`एतस्मिन्नेव काले तु तस्मिञ्जनसमागमे।'
दत्तेऽवकाशे पुरुषैर्विस्मयोत्फुल्ललोचनः।
विवेश रङ्गं विस्तीर्णं कर्णः परपुरञ्जयः॥ 1-146-1(6621)
सहजं कवचं बिभ्रत्कुण्डलोद्द्योतिताननः।
स धनुर्बद्धनिस्त्रिंशः पादचारीव पर्वतः॥ 1-146-2(6622)
कन्यागर्भः पृथुयशाः पृथायाः पृथुलोचनः।
तीक्ष्णांशोर्भास्करस्यांशः कर्णोऽरिगणसूदनः॥ 1-146-3(6623)
सिंहर्षभगजेन्द्राणां बलवीर्यपराक्रमः।
दीप्तिकान्तिद्युतिगुणैः सूर्येन्दुज्वलनोपमः॥ 1-146-4(6624)
प्रांशुः कनकतालाभः सिंहसंहननो युवा।
असङ्ख्येयगुणः श्रीमान्भास्करस्यात्मसंभवः॥ 1-146-5(6625)
स निरीक्ष्य महाबाहुः सर्वतो रङ्गमण्डलम्।
प्रणामं द्रोणकृपयोर्नात्यादृतमिवाकरोत्॥ 1-146-6(6626)
स समाजजनः सर्वो निश्चलः स्थिरलोचनः।
कोऽयमित्यागतक्षोभः कौतूहलपरोऽभवत्॥ 1-146-7(6627)
सोऽब्रवीन्मेघगम्भीरस्वरेण वदतां वरः।
भ्राता भ्रातरमज्ञातं सावित्रः पाकशासनिम्॥ 1-146-8(6628)
पार्थ यत्ते कृतं कर्म विशेषवदहं ततः।
करिष्ये पश्यतां नॄणां माऽऽत्मना विस्मयं गमः॥ 1-146-9(6629)
असमाप्ते ततस्तस्य वचने वदतां वर।
यन्त्रोत्क्षिप्त इवोत्तस्थौ क्षिप्रं वै सर्वतो जनः॥ 1-146-10(6630)
प्रीतिश्च मनुजव्याघ्र दुर्योधनमुपाविशत्।
ह्रीश्च क्रोधश्च बीभत्सुं क्षणेनान्वाविवेश ह॥ 1-146-11(6631)
ततो द्रोणाभ्यनुज्ञातः कर्णः प्रियरणः सदा।
यत्कृतं तत्र पार्थेन तच्चकार महाबलः॥ 1-146-12(6632)
अथ दुर्योधनस्तत्र भ्रातृभिः सह भारत।
कर्णं परिष्वज्य मुदा ततो वचनमब्रवीत्॥ 1-146-13(6633)
स्वागतं ते महाबाहो दिष्ट्या प्राप्तोऽसि मानद।
अहं च कुरुराज्यं च यथेष्टमुपभुज्यताम्॥ 1-146-14(6634)
कर्ण उवाच। 1-146-15x(865)
कृतं सर्वमहं मन्ये सखित्वं च त्वया वृणे।
द्वन्द्वयुद्धं च पार्थेन कर्तुमिच्छाम्यहं प्रभो॥ 1-146-15(6635)
`वैशम्पायन उवाच। 1-146-16x(866)
एवमुक्तस्तु कर्णेन राजन्दुर्योधनस्तदा।
कर्णं दीर्घाञ्चितभुजं परिष्वज्येदमब्रवीत्॥' 1-146-16(6636)
भुङ्क्ष्व भोगान्मया सार्धं बन्धूनां प्रियकृद्भव।
दुर्हृदां कुरु सर्वेषां मूर्ध्नि पादमरिन्दम॥ 1-146-17(6637)
वैशम्पायन उवाच। 1-146-18x(867)
ततः क्षिप्तमिवात्मानं मत्वा पार्थोऽभ्यभाषत।
कर्णं भ्रातृसमूहस्य मध्येऽचलमिव स्थितम्॥ 1-146-18(6638)
अर्जुन उवाच। 1-146-19x(868)
अनाहूतोपसृष्टानामनाहूतोपजल्पिनाम्।
ये लोकास्तान्हतः कर्ण मया त्वं प्रतिपत्स्यसे॥ 1-146-19(6639)
कर्ण उवाच। 1-146-20x(869)
रङ्गोऽयं सर्वसामान्यः किमत्र तव फाल्गुन।
वीर्यश्रेष्ठाश्च राजानो बलं धर्मोऽनुवर्तते॥ 1-146-20(6640)
किं क्षेपैर्दुर्बलायासैः शरैः कथय भारत।
गुरोः समक्षं यावत्ते हराम्यद्य शिरः शरैः॥ 1-146-21(6641)
वैशम्पायन उवाच। 1-146-22x(870)
ततो द्रोणाभ्यनुज्ञातः पार्तः परपुरञ्जयः।
भ्रातृभिस्त्वरयाश्लिष्टो रणायोपजगाम तम्॥ 1-146-22(6642)
ततो दुर्योधनेनापि स भ्रात्रा समरोद्यतः।
परिष्वक्तः स्थितः कर्णः प्रगृह्य सशरं धनुः॥ 1-146-23(6643)
ततः सविद्युत्स्तनितैः सेन्द्रायुधपुरोगमैः।
आवृतं गगनं मेघैर्बलाकापङ्क्तिहासिभिः॥ 1-146-24(6644)
ततः स्नेहाद्धरिहयं दृष्ट्वा रङ्गावलोकिनम्।
भास्करोऽप्यनयन्नाशं समीपोपगतान्घनान्॥ 1-146-25(6645)
मेघच्छायोपगूढस्तु ततोऽदृश्यत फाल्गुनः।
सूर्यातपपरिक्षिप्तः कर्णोऽपि समदृश्यत॥ 1-146-26(6646)
धार्तराष्ट्रा यतः कर्णस्तस्मिन्देशे व्यवस्थिताः।
भारद्वाजः कृपो भीष्मो यतः पार्थस्ततोऽभवन्॥ 1-146-27(6647)
द्विधा रङ्गः समभवत्स्त्रीणां द्वैधमजायत।
कुन्तिभोजसुता मोहं विज्ञातार्था जगाम ह॥ 1-146-28(6648)
तां तथा मोहमापन्नां विदुरः सर्वधर्मवित्।
कुन्तीमाश्वासयामास प्रेष्याभिश्चन्दनोदकैः॥ 1-146-29(6649)
ततः प्रत्यागतप्राणा तावुभौ परिदंशितौ।
पुत्रौ दृष्ट्वा सुसंभ्रान्ता नान्वपद्यत किंचन॥ 1-146-30(6650)
तावुद्यतमहाचापौ कृपः शारद्वतोऽब्रवीत्।
द्वन्द्वयुद्धसमाचारे कुशलः सर्वधर्मवित्॥ 1-146-31(6651)
अयं पृथायास्तनयः कनीयान्पाण्डुनन्दनः।
कौरवो भवता सार्धं द्वन्द्वयुद्धं करिष्यति॥ 1-146-32(6652)
त्वमप्येवं महाबाहो मातरं पितरं कुलम्।
कथयस्व नरेन्द्राणां येषां त्वं कुलभूषणम्॥ 1-146-33(6653)
ततो विदित्वा पार्थस्त्वां प्रतियोत्स्यति वा न वा।
वृथाकुलसमाचारैर्न युध्यन्ते नृपात्मजाः॥ 1-146-34(6654)
वैशम्पायन उवाच। 1-146-35x(871)
एवमुक्तस्य कर्णस्य व्रीडावनतमाननम्।
बभौ वर्षाम्बुविक्लिन्नं पद्ममागलितं यथा॥ 1-146-35(6655)
दुर्योधन उवाच। 1-146-36x(872)
आचार्य त्रिविधा योनी राज्ञां शास्त्रविनिश्चये।
सत्कुलीनश्च शूरश्च यश्च सेनां प्रकर्षति॥ 1-146-36(6656)
`अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम्।
तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति॥' 1-146-37(6657)
यद्ययं फाल्गुनो युद्धे नाराज्ञा योद्धुमिच्छति।
तस्मादेषोऽङ्गविषये मया राज्येऽभिषिच्यते॥ 1-146-38(6658)
वैशम्पायन उवाच। 1-146-39x(873)
`ततो राजानमामन्त्र्य गाङ्गेयं च पितामहम्।
अभिषेकस्य संभारान्समानीय द्विजातिभिः॥ 1-146-39(6659)
गोसहस्रायुतं दत्त्वा युक्तानां पुण्यकर्मणाम्।
अर्होऽयमङ्गराज्यस्य इति वाच्य द्विजातिभिः'॥ 1-146-40(6660)
ततस्तस्मिन्क्षणे कर्णः सलाजकुसुमैर्घटैः।
काञ्चनैः काञ्चने पीठे मन्त्रविद्भिर्महारथः॥ 1-146-41(6661)
अभिषिक्तोऽङ्गराजे स श्रिया युक्तो महाबलः।
`स मौलिहारकेयूरः सहस्ताभरणाङ्गदः॥ 1-146-42(6662)
राजलिङ्गैस्तथाऽन्यैश्च भूषितो भूषणैः शुभैः।'
सच्छत्रवालव्यजनो जयशब्दोत्तरेण च॥ 1-146-43(6663)
उवाच कौरवं राजन्वचनं स वृषस्तदा।
अस्य राज्यप्रदानस्य सदृशं किं ददानि ते॥ 1-146-44(6664)
प्रब्रूहि राजशार्दूल कर्ता ह्यस्मि तथा नृप।
अत्यन्तं सख्यमिच्छामीत्याह तं स सुयोधनः॥ 1-146-45(6665)
एवमुक्तस्ततः कर्णस्तथेति प्रत्युवाच तम्।
हर्षाच्चोभौ समाश्लिष्य परां मुदमवापतुः॥ ॥ 1-146-46(6666)
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि षट्चत्वारिंशदधिकशततमोऽध्यायः॥ 146 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-146-1 दत्तावकाश इति चपाठः॥ 1-146-6 नामपूर्वमथाकरोत् इति पाठान्तरम्॥ 1-146-26 सूर्यातपपरिवक्त इति डपाठः॥ 1-146-28 विज्ञातार्था कर्णस्य स्वपुत्रत्वज्ञानवती। हेतुगर्भमेतत्॥ 1-146-34 वृथाकुलसमाचारैः अज्ञातकुलाचारैः॥ 1-146-40 वाच्य वाचयित्वा॥ षट्चत्वारिंशदधिकशततमोऽध्यायझ॥ 146 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|